1 सानन्दं सदनं सुतास्तु सुधियः कान्ता मृदुभाषिणी इच्छापूर्णधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपाने गृहे साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥ १ ॥1
2 आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् । अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥ २ ॥
3 दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ ३ ॥
4 हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे जम्बुक मुञ्च मुञ्च सहसा नीचस्य निन्द्यं वपुः । ४ ॥ ४ ॥
5 येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितरसकथा सादरौ नैव कर्णौ धिक्तान्धिक्तान्धिगेतान्कथयति सततं कीर्तनस्थो मृदङ्गः । ५ ॥ ५ ॥
6 पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ ६ ॥
7 सत्सङ्गाद्भवति हि साधुता खलानां साधूनां न हि खलसंगमात्खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं न हि कुसुमानि धारयन्ति ॥ ७ ॥
8 साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ ८ ॥
9 विप्रास्मिन्नगरे महान्कथय कम्तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परदारवित्तहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ ९ ॥
10 न विप्रपादोदककर्दमानि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ १० ॥
11 सत्यं माता पिता ज्ञानं धर्मो भ्राता दया स्वसा । शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥ ११ ॥printings differ
12 अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ १२ ॥
13 आमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता नार्यः अहं कृष्णरणोत्सवः ॥ १३ ॥
14 मातृवत्परदारांश्च परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ १४ ॥
15 धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवञ्चनता गुरौ विनयता चित्तेऽतिगम्भीरता । आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥ १५ ॥
16 काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्बलिर्दितिसुतो नित्यं पशुः कामगौर् नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥ १६ ॥
17 विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ १७ ॥
18 अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥ १८ ॥
19 नाहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत् । आहारो हि मनुष्याणां जन्मना सह जायते ॥ १९ ॥
20 जलविन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ २० ॥
21 वयसः परिणामेऽपि यः खलः खल एव सः । सुपक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥ २१ ॥






























































