1 श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥ १ ॥
2 पक्षिणां काकश्चाण्डालः पशूनां चैव कुक्कुरः । मुनीनां कोपी चाण्डालः सर्वचाण्डालनिन्दितः ॥ २ ॥1printings differ
3 भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति । रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥ ३ ॥
4 भ्रमन्संपूज्यते राजा भ्रमन्संपूज्यते द्विजः । भ्रमन्संपूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥ ४ ॥
5 तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ५ ॥
6 कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ६ ॥
8 स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥ ८ ॥
9 राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ ९ ॥
10 ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ १० ॥
12 वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदाराः ॥ १२ ॥
13 कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽस्ति निर्वृतिः । कुदारदारैश्च कुतो गृहे रतिः कुशिष्यमध्यापयतः कुतो यशः ॥ १३ ॥
14 सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात् । वायसात्पञ्च शिक्षेच्च षट्शुनस्त्रीणि गर्दभात् ॥ १४ ॥
16 इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः । देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥ १६ ॥
17 प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु । स्वयमाक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुक्कुटात् ॥ १७ ॥
18 गूढमैथुनं धार्ष्ट्यं च काले काले च संग्रहम् । अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥ १८ ॥5printings differ
19 बह्वाशी स्वल्पसंतुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ १९ ॥
20 सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति । संतुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥ २० ॥
21 य एतान्विंशतिगुणानाचरिष्यति मानवः । कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥ २१ ॥






























































