1 पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ । न शोभते सभामध्ये जारगर्भ इव स्त्रियाः ॥ १ ॥1printings differ
2 कृते प्रतिकृतं कुर्याद्हिंसने प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ २ ॥
3 यद्दूरं यद्दुराराध्यं यच्चादूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ३ ॥printings differ
4 लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४ ॥
6 अशक्तस्तु भवेत्साधुर्ब्रह्मचारी च निर्धनः । व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ ६ ॥
8 तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जने विषम् ॥ ८ ॥
10 न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पादोदकैर्यथा ॥ १० ॥
11 पादशेषं पीतशेषं संध्याशेषं तथैव च । श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥ ११ ॥
12 दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुण्डनेन ॥ १२ ॥printings differ
13 नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत् ॥ १३ ॥
14 सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥ १४ ॥
15 परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां संपदः स्युः पदे पदे ॥ १५ ॥
16 यदि रामा यदि च रमा यद्यपि तनयो विनयगुणोपेतः । यदि तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ १६ ॥5
17 आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ १७ ॥
18 दानार्थिनो मधुकरा यदि कर्णतालैर् दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने वसन्ति ॥ १८ ॥
19 राजा वेश्या यमो ह्यग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति ह्यष्टमो ग्रामकण्टकः ॥ १९ ॥
20 अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ २० ॥
21 व्यालाश्रयापि विफलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोर् एको गुणः खलु निहन्ति समस्तदोषान् ॥ २१ ॥






























































