1 अनृतं साहसं माया मूर्खत्वमतिलुब्धता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ १ ॥
3 यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च संतुष्टस्तस्य स्वर्ग इहैव हि ॥ ३ ॥
4 ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ ४ ॥
5 परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ५ ॥
6 न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ ६ ॥
7 मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥ ७ ॥
8 कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥ ८ ॥
9 शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥ ९ ॥
10 पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसपन्ना भवन्ति कुलपूजिताः ॥ १० ॥
12 लालनाद्बहवो दोषास्ताडनाद्बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ १२ ॥
14 कान्तावियोगः स्वजनापमान ऋणस्य शेषं कुनृपस्य सेवा । दरिद्रभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥ १४ ॥4printings differ
15 नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥ १५ ॥
16 बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां चाकनिष्ठता ॥ १६ ॥5printings differHere we follow the Mathura printing (1914)
17 निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागता गृहम् ॥ १७ ॥
18 गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥ १८ ॥
19 दुराचारी च दुर्दृष्टिर्दुरावासी च दुर्जनः । यन्मैत्री क्रियते पुम्भिर्नरः शीघ्रं विनश्यति ॥ १९ ॥6
20 समाने शोभते प्रीती राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ २० ॥



























































