1 कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ १ ॥
2 आचारः कुलमाख्याति देशमाख्याति भाषणम् । संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ २ ॥
3 सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मेण योजयेत् ॥ ३ ॥
4 दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति कालेन दुर्जनस्तु पदे पदे ॥ ४ ॥
5 एतदर्थं कुलीनानां नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥ ५ ॥
6 प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥ ६ ॥
7 मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति वाक्यशल्येन अदृष्टः कण्टको यथा ॥ ७ ॥1printings differ
9 कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ९ ॥3
10 त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १० ॥
11 उद्योगे नास्ति दारिद्र्यं जप्यतो नास्ति पातकम् । मौने च कलहो नास्ति नास्ति जागरतो भयम् ॥ ११ ॥
12 अतिरूपेण वै सीता अतिगर्वेण रावणः । अतिदानं बलिर्दत्त्वा अति सर्वत्र वर्जयेत् ॥ १२ ॥4printings differ
13 कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १३ ॥5printings differ
14 एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ १४ ॥
15 एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ १५ ॥
16 एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥ १६ ॥
17 किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १७ ॥
18 लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ १८ ॥
19 उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसंपर्के यः पलायेत्स जीवति ॥ १९ ॥
21 मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसंचितम् । दंपत्योः कलहो नास्ति तत्र श्रीः स्वयमागता ॥ २१ ॥






























































