2 साधुभ्यस्ते निवर्तन्ते पुत्रा मित्राणि बान्धवाः । ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥ २ ॥
3 दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी । शिशुं पालयते नित्यं तथा सज्जनसंगतिः ॥ ३ ॥
4 यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥ ४ ॥
5 कामधेनुगुणा विद्या ह्यकाले फलदायिनि । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ ५ ॥
7 मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ७ ॥
8 कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥ ८ ॥
9 किं तया क्रियते धेन्वा या न दोग्ध्री न गुर्विणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ९ ॥
10 संसारतापदग्धानां त्रयो विश्रान्तिहेतवः । अपत्यं च कलत्रं च सतां संगतिरेव च ॥ १० ॥
11 सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ ११ ॥
12 एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ १२ ॥
13 सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता । सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ १३ ॥
14 अपुत्रस्य गृहं शून्यं दिशःशून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ १४ ॥
15 अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥ १५ ॥
16 त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥ १६ ॥
17 अध्वा जरा मनुष्याणां वाजिनां बन्धनं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ १७ ॥
18 कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १८ ॥printings differ
19 जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ १९ ॥
20 राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ २० ॥
21 अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ २१ ॥






























































