3 पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ३ ॥
4 बहूनां चैव सत्त्वानां समवायो रिपुंजयः । वर्षधाराधरो मेघस्तृणैरपि निवार्यते ॥ ४ ॥
5 जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ५ ॥
6 धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ ६ ॥
7 उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ ७ ॥
8 दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो न हि कर्तव्यो बहुरत्ना वसुंधरा ॥ ८ ॥
9 दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ९ ॥
10 यस्माच्च प्रियमिच्छेत तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥ १० ॥3
11 अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यतां मध्यभागेन राजा वह्निर्गुरुः स्त्रियः ॥ ११ ॥
12 अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ १२ ॥
13 स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥ १३ ॥
14 यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा । परापवादसस्येभ्यो गां चरन्तीं निवारय ॥ १४ ॥4printings differ
15 प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ १५ ॥printings differ
16 एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कुणपः कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥ १६ ॥
17 सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् । कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥ १७ ॥
18 तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ १८ ॥
19 धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् । सुगृहीतं च कर्तव्यमन्यथा यो न जीवति ॥ १९ ॥
20 त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ २० ॥



























































