1 अधमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १ ॥
2 इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ २ ॥
3 दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥ ३ ॥
4 वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवन्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डलं भूयःपश्य तदेव कोटिगुणितं गच्छत्तमम्भोनिधिम् ॥ ४ ॥
5 चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ ५ ॥
6 तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥ ६ ॥
7 अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषप्रदम् ॥ ७ ॥
8 हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्नायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ ८ ॥
9 वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ ९ ॥
10 नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ १० ॥
11 काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तया सिद्धिस्तस्य विष्णुः प्रसीदति ॥ ११ ॥1printings differ
12 न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ १२ ॥
13 शान्तितुल्यं तपो नास्ति न संतोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥ १३ ॥printings differ
14 क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी । विद्या कामदुघा धेनुः संतोषो नन्दनं वनम् ॥ १४ ॥
15 गुणो भूषयते रूपं शीलं भूषयते कुलम् । सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ॥ १५ ॥
16 निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥ १६ ॥
18 असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गनाः ॥ १८ ॥
19 किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलीनोऽपि विद्वांश्च देवैरपि सुपूज्यते ॥ १९ ॥3printings differ
20 विद्वान्प्रशस्यते लोके विद्वान्सर्वत्र गौरवम् । विद्यया लभ्यते सर्वं विद्या सर्वत्र पूज्यते ॥ २० ॥
22 अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ २२ ॥

































































