1 मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ १ ॥
2 गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः ॥ २ ॥
3 स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता । ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः ॥ ३ ॥
4 अहो वत विचित्राणि चरितानि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥ ४ ॥
5 यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥ ५ ॥
6 अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ ६ ॥
7 राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ७ ॥
8 जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥ ८ ॥
9 धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ९ ॥
10 दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ १० ॥
13 ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत् ॥ १३ ॥
14 यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥ १४ ॥
16 यथा खात्वा खनित्रेण भूतले वारि विन्दति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ १६ ॥
17 कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्याः सुविचार्यैव कुर्वते ॥ १७ ॥
18 एकाक्षरप्रदातारं यो गुरुं नाभिवन्दति । श्वानयोनिशतं भुक्त्वा चाण्डालिष्वभिजायते ॥ १८ ॥
19 युगान्ते चलते मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ १९ ॥
























































